अग्नौकरवाणिन्यायः
अग्नौकरवाणिन्यायः
इत्थम् - "उद्धृत्य घृतमक्तमन्नम् अनुज्ञापयति अग्नौ करिष्ये, करवै, करवाणि इति वा" इति गृह्यसूत्रमनु कर्त्ता ब्राह्मणेभ्यः अनुज्ञां याचते
। तथा ब्राह्मणानां प्रत्यनुज्ञा "क्रियतां, कुरुष्व, कुरु" इति वा । अत्र कृ-धातुः सकर्मकः "अग्नौ करवाणि" इति यदा
अनुज्ञां याचते तदा एषः संशयः उदेति "अग्नौ किं करवाणि" इति ।
हव्य-कव्यादिकम् इति समाधानम् । परन्तु अत्र "अग्नौ कुरु" इत्येव
प्रत्यनुञा । अर्थात् कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् इति प्रकरणवशात्
ज्ञायते, तथा क्रियते च । एवमेव "अग्नौ करिष्ये" इति कर्त्ता यदा अनुज्ञां
याचते, तदा प्रत्यनुज्ञावचनं "क्रियताम्" इति । अत्र "क्रियताम्"
इति कर्म एव अनुज्ञायते, न तु कर्त्ता । तथाऽपि प्रकरणवशात् ज्ञायते कर्मणि अनुज्ञाते सति कर्त्ता अपि
अनुज्ञायते एव इति गम्यते ॥
"किंसब्रह्मचारी"
इत्यत्र कः समासः इति विचार्यते । अत्र कर्मधारयः, तत्पुरुषः, बहुव्रीहिः च भवितुमर्हति । परन्तु कुत्सार्थाऽभावात् न अत्र कर्मधारयः ।
स्वरभेदः प्रसज्यते (आद्युदात्तः इष्यते, तत्पुरुषे सतु अन्तोदात्तः भवति) इति हेतोः न
तत्पुरुषः अपि । परिशेषात् अत्र बहुव्रीहिरेव । बहुव्रीहौ तु विग्रहः एवं भवति -
के सब्रह्मचारिणः अस्य = किंसब्रह्मचारी इति । परिनिष्ठितं रूपं तु अन्यपदार्थं
वटुमेव निर्दिशति, बहुव्रीहौ अन्यपदार्थस्य प्राधान्यात् । अत्र अन्यपदार्थः तावत् अर्थात् वटुः एक एव । अतः उत्तरम् अपि एकवचनमेव स्यात्
- कठः (कौण्डिन्यः आदि) । यदि वाक्येन प्रश्नः क्रियते "के सब्रह्मचारिणः
अस्य?” इति तथा समाधानमपि बहुवचनमेव स्यात् - कठाः (कौण्डिन्याः आदि) । परन्तु “कठः” इत्युक्ते “सब्रह्मचारिणाः के” इति प्रश्नः उदेति । एवं “कठाः” इत्युक्ते “एषः वटुः कः” इति प्रश्नः उदेति । तथा अग्नौकरवाणिन्यायः अत्र
सञ्चार्यते । यदा तत्र सम्बन्धात् कर्तुः कर्मणः वा बोधो जायते तथा अत्रापि
"सब्रह्मचारिणः कठाः" इत्युक्ते एषः वटुः अपि "कठः" इति
ज्ञायते (शाखान्तरीयः सब्रह्मचारी भवितुं नार्हति इति हेतोः) । तथैव एषः वटुः
"कठः" इत्युक्ते सम्बन्धात् ज्ञायते एतस्य सब्रह्ममचारिणः अपि
"कठाः" इति । इत्थम् अग्नौकरवाणिन्यायः नाम कर्तरि अनुज्ञाते कर्म
अनुज्ञातं भवति, कर्मणि अनुज्ञाते कर्त्ता अनुज्ञातः भवति सम्बन्धग्रहात् । तद्वद् अत्रापि
"कठाः सब्रह्मचारिणः" इत्युक्ते एषः वटुः अपि "कठः" इति तथा एषः
वटुः "कठः" इत्युक्ते एतस्य सब्रह्मचारिणः अपि "कठाः" इति च
ज्ञायते सम्बन्धग्रहात् ।
एषः न्यायः
मीमांसाशास्त्रे न प्रदर्शितः । परन्तु भगवता भाष्यकारेण गृह्यसूत्राणाम् आधारेण
स्वयं प्रयुक्तः (आविष्कृतः) । अत एव भोजदेवः साहित्यप्रकाशाख्ये शृङ्गारप्रकाशे
प्रकृत्यादिशब्दप्रकाशाख्ये तृतीये प्रकाशे भाष्यकृतः नाम्ना एव अमुं न्यायम्
उद्धरति । तेनाऽपि इदं स्पष्टं मीमांसाशास्त्रे न अस्य न्यायस्य प्रवर्तनम् अपि तु
महाभाष्यकारेण एव इति ॥
*******
No comments:
Post a Comment