कृतदारोऽस्मि भवति भार्येयं दयिता मम ।
त्वद्विधानां तु नारीणां सुदुःखा
सुसपत्नता ॥
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः ।
श्रीमान् अकृतदारश्च लक्ष्मणो
नाम वीर्यवान् ॥
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः ।
अनुरूपश्च ते भर्ता रूपस्यास्य
भविष्यति ॥
(आरण्यकाण्डे १८-२,३,&४)
एषः श्रीराम-शूर्पणखासंवादप्रसङ्गः । शूर्पणखा श्रीरामं प्रार्थयते - मां
परिगृह्णीष्व इति । तदा श्रीरामः परिहासेन तां वदति - कृतदारः = परिणीतः, अस्मि = वर्ते, इयं दयिता = इयं प्रिया,
मम = मे, भार्या = पत्नी । त्वद्विधानां
= तव सदृशीनां, नारीणां = स्त्रीणां, ससप्त्नता = पत्न्या सह वर्तमानता, सुदुःखा = खेदखरी ॥ एषः = असौ, मम = मे, अनुजः = अवरजातः, भ्राता = सहोदरः, शीलवान् = गुणसम्पन्नः, प्रियदर्शनः = सुन्दरः, श्रीमान् = श्रिया युक्तः, अकृतदारः = अविवाहितः, वीर्यवान् = पराक्रमवान्, लक्ष्मणः नाम = लक्ष्मण इति प्रसिद्धः ॥ अपूर्वी =
पूर्वभार्याभाववान्, भार्यया = दाराभिः, च = अपि, अर्थी = प्रयोजनवान्, अस्य = भवत्याः, रूपस्य = सौन्दर्यस्य, अनुरूपः = योग्यः, ते = तव, भर्ता = पतिः, भविष्यति = भवितुमर्हति ॥
१) कृतदारः - कृताः दाराः येन सः = कृतदारः, बहुव्रीहिसमासः, विवाहितः इत्यर्थः ॥
२) ससपत्नता - सपत्न्या सहिता = ससपत्नी, तस्याः भावः = ससपत्नता । "ससपत्न"+ता
इति पुंवद्भावः "त्वतलोर्गुणवचनस्य" इति, गुणत्वं च अस्य शुक्लता इत्यादिवत् । अर्थात्
सपत्नीसाहित्यरूपगुणवचनत्वात् इति गोविन्दराजः ॥
३) कृताः दाराः यस्य सः = अकृतदारः, न कृतदारः = अकृतदारः ।
अत्र "अकृतदारः" इति लक्ष्मणं निर्दिशति श्रीरामः । तेन श्रीरामे
मिथ्याभाषणारोपः भवितुमर्हति । "न रामो मिथ्यां ब्रूते", " न वितथा
परिहासकथास्वपि" इत्यादिवचनविरोधात् च । एतदर्थं व्याख्यातृभिः इत्थं
प्रयत्यते -
१) अकृतः परदारापरिग्रहः येन सः = अकृतदारः इति, असन्निहिताः दाराः यस्य सः = अकृतदारः इति, परिहासादौ मिथ्याभाषणे न
दोषः इति समाधानत्रयं दर्शयति तिलकटीकायाम् ।
२) न कृताः वने स्वीकृताः दाराः येन सः = अकृतदारः इति व्याख्याति
रामायणशिरोमणिकारः ।
३) अकृतदारः = असहकृतदारः, "न वितथा परिहासकथास्वपि", अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन"
इत्यादिवचनबाधात् तथा व्याख्याति भूषणकारः ॥
तथा च "अकृतदारः" इत्यस्य विग्रहः अपरः एव चिन्तनीयः ॥
हिन्दी - "अकृतदार" शब्द से यह
अर्थ प्रतित होता है कि "अविवाहित" । ऐसे अर्थ करने पर "राम
परिहास के लिए भी झूठ नहीं बोलता है", और " मैं कभी झूठ नहीं बोला और बोलूंगा भी
नहीं" आदि वचनों से विरोध होने के कारण व्याख्याताओं ने इस शब्द का विग्रह
(पद का अर्थ बोधक वाक्य) अन्यथा दर्शाते हैं । जैसे - १) न किया हुआ परदारापरिग्रह
जिस के द्वारा वह । २) समीप में न रहनेवाली भार्या जिस की वह । ३) जंगल में किसी
दूसरी भार्या को न स्वीकार किया हो वह । ४) साथ न होने वाली भार्या जिसकी वह ।
इस प्रकार "अकृतदार" शब्द को अन्यथा विग्रह करके श्रीराम ने झूठ
नहीं बोला - इसे स्थापित करते है व्याख्याकार ॥
English – The
word an adjective used by Sri Rama to refer Lakshmana is “अकृतदार” . This word literally means that “One who not married”. If we take this
meaning then this will contradict the earlier sayings of or about Sri Rama such
as “Even for fun Sri Rama never speaks lie” and “I didn’t speak lie earlier and
would not speak lie at any time.” To protect character sketch of Sri Rama as
defined Valmiki, almost all the scholars tried their level best to define this
word “अकृतदार” . Thus they present few solutions for this
issue. They are –
1) अकृतदार means that who has not taken wives of others
meaning one who is not married to wives of others.
2) अकृतदार means that one whose wife is not within
proximity.
3) अकृतदार means one who has not married to any forest women
4) अकृतदार means whose wife is with him.
Thus, all the
commentators tried level best to defend the usage of Valmiki according to the
character of Sri Rama.
{} {}
{} {} {} {} {} {}
1 comment:
Pranamam, I am following you in twiiter. When I see this particular question, I remember There is a big message in Disguise, given by Rama to this WORLD, Very important message, particularly in this EPISODE of Ramayan. It would be great if you could share to everyone rather I point it out.
Post a Comment