Friday, May 1, 2015

अध्यात्मरामायणश्लोकः

अध्यात्मरामायणश्लोकः

प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् ।
तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥
(अध्यात्मरामायणे-१३-२६)

अध्यात्मरामायणे एषः श्लोकः त्रयोदशे सर्गे इन्द्रकृतश्रीरामस्तुतौ वर्तते । अद्भुतभावपूर्णः श्लोकः । अत्र सर्वं पदं श्रीरामस्य विशेषणम् । अर्थात् राममित्रम् इत्यत्र विशेष्ये अन्वेति । राममित्रं भजे । कीदृशं राममित्रम् इति आकाङ्क्षायां प्रपन्नाखिलानन्दसन्दोहं, प्रपन्नं, प्रपन्नार्त्तिनिःशेषनाशाभिधानं, तपोयोगयोगीशभावाभिभाव्यं, कपीशादिमित्रं, राममित्रं भजे इत्यन्वयः ।

प्रतिपदार्थः

प्रपन्नाखिलानन्ददोहं = अखिलः आनन्दः = अखिलानन्दः, अखिलानन्दस्य दोहः = अखिलानन्ददोहः, प्रपन्नेभ्यः अखिलानन्ददोहः = प्रपन्नाखिलानन्ददोहः, तं प्रपन्नाखिलानन्ददोहम् । आश्रितेभ्यः सकलसन्तोषप्रदः तम् इति ।
प्रपन्नं = आश्रयस्य अधिष्ठानं यः तम्,
प्रपन्नार्त्तिनिःशेषनाशाभिधानं = निःशेषः नाशः = निःशेषनाशः, प्रपन्नानाम् आर्त्तिः = प्रपन्नार्त्तिः, प्रपन्नार्त्तेः निःशेषनाशः = प्रपन्नार्त्तिनिःशेषनाशः, प्रपन्नार्त्तिनिःशेषनाशः अभिधानं यस्य सः = प्रपन्नार्त्तिनिःशेषनाशाभिधानः, तम् इति । अथवा निःशेषा आर्त्तिः = आर्त्तिनिःशेषा (निःशेषार्त्तिः इति भवितव्ये राजदन्तादिषु परम् इति सूत्रेण उपसर्जनस्य निःशेषशब्दस्य परनिपातः), प्रपन्नानाम् आर्त्तिनिःशेषा = प्रपन्नार्त्तिनिःशेषा, प्रपन्नार्त्तिनिःशेषायाः नाशः = प्रपन्नार्त्तिनिःशेषनाशः, प्रपन्नार्त्तिनिःशेषनाशः अभिधानं यस्य सः = प्रपन्नार्त्तिनिःशेषनाशाभिधानः, तम् इति निर्वाहः । अर्थात् अश्रितानां सकलदुःखस्य नाशकः यः तादृशः, तम् इति ।
तपोयोगयोगीशभावाभिभाव्यं = तपः योगः योगीशः च = तपोयोगयोगीशाः, तेषां भावः = तपोयोगयोगीशभावः, तेन अभिभाव्यः, तम् इति । अर्थात् तपोभावेन योगभावेन योगीशभावेन च प्राप्यः ।
कपीशादिमित्रं = कपीशः आदिः येषां ते = कपीशादिः, कपीशादेः मित्रं = कपीशादिमित्रम् । अर्थात् कपीशः सुग्रीवः, तदादेः सुग्रीव​-विभीषणादेः, मित्रम् ।
राममित्रं = राम एव मित्रं = राममित्रं तम् इति । तादृशरामरूपं मित्रम् ।
भजे = ध्यायामि ॥

तात्पर्यम्

प्रपन्नेभ्यः सकलविधानन्दप्रदं, प्रपन्नानाम् आश्रयं, प्रपन्नानां सर्वविधदुःखनाशकं, तपसा योगेन योगीशैः च ध्येयं, सुग्रीवादीनां मित्रं रामरूपं मित्रं (अहं) ध्यायामि ॥

हिन्दी

प्रपन्नों के सकल विध आनन्द देनेवाला, प्रपन्नों के आश्रय​, शरणागतों के सकल दुःख का नाश करने वाला, तप योग और योगीशों के द्वारा ध्यान करने वाला, सुग्रीव आदि के मित्र​, उस प्रकार के श्रीराम रूप मित्र को (मैं) ध्यान करता हूं ॥

ENGLISH

I ponder over (my) friend Sri Ram, who is the friend of Sugriva etc., meditated by Yogisha, Yoga and penance, eliminates all kinds of sorrows of who take asylum on him, is the place for asylum, and is the giver of all happiness. 

Rama, Friendship personified, is a friend of many like Sugreeva Is my Friend too and I worship him with all my might, SriRama (Translation by Brahmasri Ganeshan @vezhamukhan)


*******

1 comment:

Anon said...

Thanks for this wonderful post. I am not well versed in Sanskrit, but I enjoy reading and saying the verse. The translation is so beautiful. Rama is my best god.